या देवी सर्वभूतेषु मातृ रूपेण संस्थित । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै नमस्tस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमःया देवी सर्वभूतेषु दयारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभुतेषु बुद्धि रूपेण थिथिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तृष्णा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु क्षुधा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तुष्टि-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु निद्रा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु विद्या-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु श्रद्धा-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभू‍तेषु माँ गौरी rूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु सृष्टि रूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु भक्ति-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमःया देवी सर्वभूतेषू क्षान्ति रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
Matangi Matrimony
मातंगी मैट्रीमोनी
विश्वसनीय जीवनसाथी खोजने का भरोसेमंद प्लेटफार्म
सुरक्षित, आसान प्रोफ़ाइल मैचिंग – अपनी परफेक्ट जोड़ी अब बस एक क्लिक दूर!

माँ मातंगी स्तोत्र || Matangi Stotra

🔱 श्री मातंगी स्तोत्रम् 🔱

मातङ्गीं मधुपानमत्तनयनां मातङ्ग सञ्चारिणीं‌
कुम्भीकुम्भविवृत्तपीवरकुचां कुम्भादिपात्राञ्चिताम् ।‌
ध्यायेऽहं मधुमारणैकसहजां ध्यातुस्सुपुत्रप्रदां‌
शर्वाणीं सुरसिद्धसाध्यवनिता संसेविता पादुकाम् ॥ १॥‌

मातङ्गी महिषादिराक्षसकृतध्वान्तैकदीपो मणिः‌
मन्वादिस्तुत मन्त्रराजविलसत्सद्भक्त चिन्तामणिः ।‌
श्रीमत्कौलिकदानहास्यरचना चातुर्य राकामणिः‌
देवित्वं हृदये वसाद्यमहिमे मद्भाग्य रक्षामणिः ॥ २॥‌

जयदेवि विशालाक्षि जय सर्वेश्वरि जय ।‌
जयाञ्जनगिरिप्रख्ये महादेव प्रियङ्करि ॥ ३॥‌

महाविश्वेश दयिते जय ब्रह्मादि पूजिते ।‌
पुष्पाञ्जलिं प्रदास्यामि गृहाण कुलनायिके ॥ ४॥‌

जयमातर्महाकृष्णे जय नीलोत्पलप्रभे ।‌
मनोहारि नमस्तेऽस्तु नमस्तुभ्यं वशङ्करि ॥ ५॥‌

जय सौभाग्यदे नॄणां लोकमोहिनि ते नमः ।‌
सर्वैश्वर्यप्रदे पुंसां सर्वविद्याप्रदे नमः ॥ ६॥‌

सर्वापदां नाशकरीं सर्वदारिद्रयनाशिनीम् ।‌
नमो मातङ्गतनये नमश्चाण्डालि कामदे ॥ ७॥‌

नीलाम्बरे नमस्तुभ्यं नीलालकसमन्विते ।‌
नमस्तुभ्यं महावाणि महालक्ष्मि नमोस्तुते ॥ ८॥‌

महाmaातङ्गि पादाब्जं तव नित्यं नमाम्यहम् ।‌
एतदुक्तं महादेव्या मातङ्गयाः स्तोत्रमुत्तमम् ॥ ९॥‌

सर्वकामप्रदं नित्यं यः पठेन्मानवोत्तमः ।
विमुक्तस्सकलैः पापैः समग्रं पुण्यमश्नुते ॥ १०॥‌

राजानो दासतां यान्ति नार्यो दासीत्वमाप्नुयुः ।‌
दासीभूतं जगत्सर्वं शीघ्रं तस्य भवेद् ध्रुवम् ॥ ११॥

महाकवीभवेद्वाग्भिः साक्षाद् वागीश्वरो भवेत् ।‌
अचलां श्रियमाप्नोति अणिमाद्यष्टकं लभेत् ॥ १२॥‌

लभेन्मनोरथान् सर्वान् त्रैलोक्ये नापि दुर्लभान् ।‌
अन्ते शिवत्वमाप्नोति नात्र कार्या विचारणा ॥ १३॥‌
 

आयोजित धार्मिक कार्यक्रमों की दिव्य झलकियाँ